Saturday, 10 June 2017

कनक धारा स्तोत्रम्

वन्दे वन्दारु मन्दारमिन्दिरानन्द कन्दलं
अमन्दानन्द सन्दोह बन्धुरं सिन्धुराननम्
अङ्गं हरेः पुलकभूषणमाश्रयन्ती
भृङ्गाङ्गनेव मुकुलाभरणं तमालम् ।
अङ्गीकृताखिल विभूतिरपाङ्गलीला
माङ्गल्यदास्तु मम मङ्गलदेवतायाः ॥ 1 ॥
मुग्धा मुहुर्विदधती वदने मुरारेः
प्रेमत्रपाप्रणिहितानि गतागतानि ।
मालादृशोर्मधुकरीव महोत्पले या
सा मे श्रियं दिशतु सागर सम्भवा याः ॥ 2 ॥
आमीलिताक्षमधिग्यम मुदा मुकुन्दम्
आनन्दकन्दमनिमेषमनङ्ग तन्त्रम् ।
आकेकरस्थितकनीनिकपक्ष्मनेत्रं
भूत्यै भवन्मम भुजङ्ग शयाङ्गना याः ॥ 3 ॥
बाह्वन्तरे मधुजितः श्रितकौस्तुभे या
हारावलीव हरिनीलमयी विभाति ।
कामप्रदा भगवतोஉपि कटाक्षमाला
कल्याणमावहतु मे कमलालया याः ॥ 4 ॥
कालाम्बुदालि ललितोरसि कैटभारेः
धाराधरे स्फुरति या तटिदङ्गनेव ।
मातुस्समस्तजगतां महनीयमूर्तिः
भद्राणि मे दिशतु भार्गवनन्दना याः ॥ 5 ॥
प्राप्तं पदं प्रथमतः खलु यत्प्रभावात्
माङ्गल्यभाजि मधुमाथिनि मन्मथेन ।
मय्यापतेत्तदिह मन्थरमीक्षणार्थं
मन्दालसं च मकरालय कन्यका याः ॥ 6 ॥
विश्वामरेन्द्र पद विभ्रम दानदक्षम्
आनन्दहेतुरधिकं मुरविद्विषोஉपि ।
ईषन्निषीदतु मयि क्षणमीक्षणार्थं
इन्दीवरोदर सहोदरमिन्दिरा याः ॥ 7 ॥
इष्टा विशिष्टमतयोपि यया दयार्द्र
दृष्ट्या त्रिविष्टपपदं सुलभं लभन्ते ।
दृष्टिः प्रहृष्ट कमलोदर दीप्तिरिष्टां
पुष्टिं कृषीष्ट मम पुष्कर विष्टरा याः ॥ 8 ॥
दद्याद्दयानु पवनो द्रविणाम्बुधारां
अस्मिन्नकिञ्चन विहङ्ग शिशौ विषण्णे ।
दुष्कर्मघर्ममपनीय चिराय दूरं
नारायण प्रणयिनी नयनाम्बुवाहः ॥ 9 ॥
गीर्देवतेति गरुडध्वज सुन्दरीति
शाकम्बरीति शशिशेखर वल्लभेति ।
सृष्टि स्थिति प्रलय केलिषु संस्थितायै
तस्यै नमस्त्रिभुवनैक गुरोस्तरुण्यै ॥ 10 ॥
श्रुत्यै नमोஉस्तु शुभकर्म फलप्रसूत्यै
रत्यै नमोஉस्तु रमणीय गुणार्णवायै ।
शक्त्यै नमोஉस्तु शतपत्र निकेतनायै
पुष्ट्यै नमोஉस्तु पुरुषोत्तम वल्लभायै ॥ 11 ॥
नमोஉस्तु नालीक निभाननायै
नमोஉस्तु दुग्धोदधि जन्मभूम्यै ।
नमोஉस्तु सोमामृत सोदरायै
नमोஉस्तु नारायण वल्लभायै ॥ 12 ॥
नमोஉस्तु हेमाम्बुज पीठिकायै
नमोஉस्तु भूमण्डल नायिकायै ।
नमोஉस्तु देवादि दयापरायै
नमोஉस्तु शार्ङ्गायुध वल्लभायै ॥ 13 ॥
नमोஉस्तु देव्यै भृगुनन्दनायै
नमोஉस्तु विष्णोरुरसि स्थितायै ।
नमोஉस्तु लक्ष्म्यै कमलालयायै
नमोஉस्तु दामोदर वल्लभायै ॥ 14 ॥
नमोஉस्तु कान्त्यै कमलेक्षणायै
नमोஉस्तु भूत्यै भुवनप्रसूत्यै ।
नमोஉस्तु देवादिभिरर्चितायै
नमोஉस्तु नन्दात्मज वल्लभायै ॥ 15 ॥
सम्पत्कराणि सकलेन्द्रिय नन्दनानि
साम्राज्य दानविभवानि सरोरुहाक्षि ।
त्वद्वन्दनानि दुरिता हरणोद्यतानि
मामेव मातरनिशं कलयन्तु मान्ये ॥ 16 ॥
यत्कटाक्ष समुपासना विधिः
सेवकस्य सकलार्थ सम्पदः ।
सन्तनोति वचनाङ्ग मानसैः
त्वां मुरारिहृदयेश्वरीं भजे ॥ 17 ॥
सरसिजनिलये सरोजहस्ते
धवलतमांशुक गन्धमाल्यशोभे ।
भगवति हरिवल्लभे मनोज्ञे
त्रिभुवनभूतिकरी प्रसीदमह्यम् ॥ 18 ॥
दिग्घस्तिभिः कनक कुम्भमुखावसृष्ट
स्वर्वाहिनी विमलचारुजलाप्लुताङ्गीम् ।
प्रातर्नमामि जगतां जननीमशेष
लोकधिनाथ गृहिणीममृताब्धिपुत्रीम् ॥ 19 ॥
कमले कमलाक्ष वल्लभे त्वं
करुणापूर तरङ्गितैरपाङ्गैः ।
अवलोकय मामकिञ्चनानां
प्रथमं पात्रमकृतिमं दयायाः ॥ 20 ॥
देवि प्रसीद जगदीश्वरि लोकमातः
कल्याणगात्रि कमलेक्षण जीवनाथे ।
दारिद्र्यभीतिहृदयं शरणागतं मां
आलोकय प्रतिदिनं सदयैरपाङ्गैः ॥ 21 ॥
स्तुवन्ति ये स्तुतिभिरमीभिरन्वहं
त्रयीमयीं त्रिभुवनमातरं रमाम् ।
गुणाधिका गुरुतुर भाग्य भागिनः
भवन्ति ते भुवि बुध भाविताशयाः ॥ 22 ॥
सुवर्णधारा स्तोत्रं यच्छङ्कराचार्य निर्मितं
त्रिसन्ध्यं यः पठेन्नित्यं स कुबेरसमो भवेत् ॥

अष्ट लक्ष्मी स्तोत्रम्

आदिलक्ष्मि
सुमनस वन्दित सुन्दरि माधवि, चन्द्र सहोदरि हेममये
मुनिगण वन्दित मोक्षप्रदायनि, मञ्जुल भाषिणि वेदनुते ।
पङ्कजवासिनि देव सुपूजित, सद्गुण वर्षिणि शान्तियुते
जय जयहे मधुसूदन कामिनि, आदिलक्ष्मि परिपालय माम् ॥ 1 ॥
धान्यलक्ष्मि
अयिकलि कल्मष नाशिनि कामिनि, वैदिक रूपिणि वेदमये
क्षीर समुद्भव मङ्गल रूपिणि, मन्त्रनिवासिनि मन्त्रनुते ।
मङ्गलदायिनि अम्बुजवासिनि, देवगणाश्रित पादयुते
जय जयहे मधुसूदन कामिनि, धान्यलक्ष्मि परिपालय माम् ॥ 2 ॥
धैर्यलक्ष्मि
जयवरवर्षिणि वैष्णवि भार्गवि, मन्त्र स्वरूपिणि मन्त्रमये
सुरगण पूजित शीघ्र फलप्रद, ज्ञान विकासिनि शास्त्रनुते ।
भवभयहारिणि पापविमोचनि, साधु जनाश्रित पादयुते
जय जयहे मधु सूधन कामिनि, धैर्यलक्ष्मी परिपालय माम् ॥ 3 ॥
गजलक्ष्मि
जय जय दुर्गति नाशिनि कामिनि, सर्वफलप्रद शास्त्रमये
रधगज तुरगपदाति समावृत, परिजन मण्डित लोकनुते ।
हरिहर ब्रह्म सुपूजित सेवित, ताप निवारिणि पादयुते
जय जयहे मधुसूदन कामिनि, गजलक्ष्मी रूपेण पालय माम् ॥ 4 ॥
सन्तानलक्ष्मि
अयिखग वाहिनि मोहिनि चक्रिणि, रागविवर्धिनि ज्ञानमये
गुणगणवारधि लोकहितैषिणि, सप्तस्वर भूषित गाननुते ।
सकल सुरासुर देव मुनीश्वर, मानव वन्दित पादयुते
जय जयहे मधुसूदन कामिनि, सन्तानलक्ष्मी परिपालय माम् ॥ 5 ॥
विजयलक्ष्मि
जय कमलासिनि सद्गति दायिनि, ज्ञानविकासिनि गानमये
अनुदिन मर्चित कुङ्कुम धूसर, भूषित वासित वाद्यनुते ।
कनकधरास्तुति वैभव वन्दित, शङ्करदेशिक मान्यपदे
जय जयहे मधुसूदन कामिनि, विजयलक्ष्मी परिपालय माम् ॥ 6 ॥
विद्यालक्ष्मि
प्रणत सुरेश्वरि भारति भार्गवि, शोकविनाशिनि रत्नमये
मणिमय भूषित कर्णविभूषण, शान्ति समावृत हास्यमुखे ।
नवनिधि दायिनि कलिमलहारिणि, कामित फलप्रद हस्तयुते
जय जयहे मधुसूदन कामिनि, विद्यालक्ष्मी सदा पालय माम् ॥ 7 ॥
धनलक्ष्मि
धिमिधिमि धिन्धिमि धिन्धिमि-दिन्धिमि, दुन्धुभि नाद सुपूर्णमये
घुमघुम घुङ्घुम घुङ्घुम घुङ्घुम, शङ्ख निनाद सुवाद्यनुते ।
वेद पूराणेतिहास सुपूजित, वैदिक मार्ग प्रदर्शयुते
जय जयहे मधुसूदन कामिनि, धनलक्ष्मि रूपेणा पालय माम् ॥ 8 ॥
फलशृति
श्लो॥ अष्टलक्ष्मी नमस्तुभ्यं वरदे कामरूपिणि ।
विष्णुवक्षः स्थला रूढे भक्त मोक्ष प्रदायिनि ॥
श्लो॥ शङ्ख चक्रगदाहस्ते विश्वरूपिणिते जयः ।
जगन्मात्रे च मोहिन्यै मङ्गलं शुभ मङ्गलम् ॥

श्री महा लक्ष्मी अष्टोत्तर शत नामावलि

ॐ प्रकृत्यै नमः
ॐ विकृत्यै नमः
ॐ विद्यायै नमः
ॐ सर्वभूतहितप्रदायै नमः
ॐ श्रद्धायै नमः
ॐ विभूत्यै नमः
ॐ सुरभ्यै नमः
ॐ परमात्मिकायै नमः
ॐ वाचे नमः
ॐ पद्मालयायै नमः
ॐ पद्मायै नमः
ॐ शुच्यै नमः
ॐ स्वाहायै नमः
ॐ स्वधायै नमः
ॐ सुधायै नमः
ॐ धन्यायै नमः
ॐ हिरण्मय्यै नमः
ॐ लक्ष्म्यै नमः
ॐ नित्यपुष्टायै नमः
ॐ विभावर्यै नमः
ॐ अदित्यै नमः
ॐ दित्यै नमः
ॐ दीप्तायै नमः
ॐ वसुधायै नमः
ॐ वसुधारिण्यै नमः
ॐ कमलायै नमः
ॐ कान्तायै नमः
ॐ कामाक्ष्यै नमः
ॐ क्रोधसम्भवायै नमः
ॐ अनुग्रहपरायै नमः
ॐ ऋद्धये नमः
ॐ अनघायै नमः
ॐ हरिवल्लभायै नमः
ॐ अशोकायै नमः
ॐ अमृतायै नमः
ॐ दीप्तायै नमः
ॐ लोकशोक विनाशिन्यै नमः
ॐ धर्मनिलयायै नमः
ॐ करुणायै नमः
ॐ लोकमात्रे नमः
ॐ पद्मप्रियायै नमः
ॐ पद्महस्तायै नमः
ॐ पद्माक्ष्यै नमः
ॐ पद्मसुन्दर्यै नमः
ॐ पद्मोद्भवायै नमः
ॐ पद्ममुख्यै नमः
ॐ पद्मनाभप्रियायै नमः
ॐ रमायै नमः
ॐ पद्ममालाधरायै नमः
ॐ देव्यै नमः
ॐ पद्मिन्यै नमः
ॐ पद्मगन्थिन्यै नमः
ॐ पुण्यगन्धायै नमः
ॐ सुप्रसन्नायै नमः
ॐ प्रसादाभिमुख्यै नमः
ॐ प्रभायै नमः
ॐ चन्द्रवदनायै नमः
ॐ चन्द्रायै नमः
ॐ चन्द्रसहोदर्यै नमः
ॐ चतुर्भुजायै नमः
ॐ चन्द्ररूपायै नमः
ॐ इन्दिरायै नमः
ॐ इन्दुशीतुलायै नमः
ॐ आह्लोदजनन्यै नमः
ॐ पुष्ट्यै नमः
ॐ शिवायै नमः
ॐ शिवकर्यै नमः
ॐ सत्यै नमः
ॐ विमलायै नमः
ॐ विश्वजनन्यै नमः
ॐ तुष्ट्यै नमः
ॐ दारिद्र्य नाशिन्यै नमः
ॐ प्रीतिपुष्करिण्यै नमः
ॐ शान्तायै नमः
ॐ शुक्लमाल्याम्बरायै नमः
ॐ श्रियै नमः
ॐ भास्कर्यै नमः
ॐ बिल्वनिलयायै नमः
ॐ वरारोहायै नमः
ॐ यशस्विन्यै नमः
ॐ वसुन्धरायै नमः
ॐ उदाराङ्गायै नमः
ॐ हरिण्यै नमः
ॐ हेममालिन्यै नमः
ॐ धनधान्य कर्यै नमः
ॐ सिद्धये नमः
ॐ स्त्रैण सौम्यायै नमः
ॐ शुभप्रदायै नमः
ॐ नृपवेश्म गतानन्दायै नमः
ॐ वरलक्ष्म्यै नमः
ॐ वसुप्रदायै नमः
ॐ शुभायै नमः
ॐ हिरण्यप्राकारायै नमः
ॐ समुद्र तनयायै नमः
ॐ जयायै नमः
ॐ मङ्गलायै नमः
ॐ देव्यै नमः
ॐ विष्णु वक्षःस्थल स्थितायै नमः
ॐ विष्णुपत्न्यै नमः
ॐ प्रसन्नाक्ष्यै नमः
ॐ नारायण समाश्रितायै नमः
ॐ दारिद्र्य ध्वंसिन्यै नमः
ॐ सर्वोपद्रव वारिण्यै नमः
ॐ नवदुर्गायै नमः
ॐ महाकाल्यै नमः
ॐ ब्रह्म विष्णु शिवात्मिकायै नमः
ॐ त्रिकाल ज्ञान सम्पन्नायै नमः
ॐ भुवनेश्वर्यै नमः 

श्री लक्ष्मी अष्टोत्तर शतनाम स्तोत्रम्

देव्युवाच
देवदेव! महादेव! त्रिकालज्ञ! महेश्वर!
करुणाकर देवेश! भक्तानुग्रहकारक! ॥
अष्टोत्तर शतं लक्ष्म्याः श्रोतुमिच्छामि तत्त्वतः ॥
ईश्वर उवाच
देवि! साधु महाभागे महाभाग्य प्रदायकम् ।
सर्वैश्वर्यकरं पुण्यं सर्वपाप प्रणाशनम् ॥
सर्वदारिद्र्य शमनं श्रवणाद्भुक्ति मुक्तिदम् ।
राजवश्यकरं दिव्यं गुह्याद्-गुह्यतरं परम् ॥
दुर्लभं सर्वदेवानां चतुष्षष्टि कलास्पदम् ।
पद्मादीनां वरान्तानां निधीनां नित्यदायकम् ॥
समस्त देव संसेव्यम् अणिमाद्यष्ट सिद्धिदम् ।
किमत्र बहुनोक्तेन देवी प्रत्यक्षदायकम् ॥
तव प्रीत्याद्य वक्ष्यामि समाहितमनाश्शृणु ।
अष्टोत्तर शतस्यास्य महालक्ष्मिस्तु देवता ॥
क्लीं बीज पदमित्युक्तं शक्तिस्तु भुवनेश्वरी ।
अङ्गन्यासः करन्यासः स इत्यादि प्रकीर्तितः ॥
ध्यानम्
वन्दे पद्मकरां प्रसन्नवदनां सौभाग्यदां भाग्यदां
हस्ताभ्यामभयप्रदां मणिगणैः नानाविधैः भूषिताम् ।
भक्ताभीष्ट फलप्रदां हरिहर ब्रह्माधिभिस्सेवितां
पार्श्वे पङ्कज शङ्खपद्म निधिभिः युक्तां सदा शक्तिभिः ॥
सरसिज नयने सरोजहस्ते धवल तरांशुक गन्धमाल्य शोभे ।
भगवति हरिवल्लभे मनोज्ञे त्रिभुवन भूतिकरि प्रसीदमह्यम् ॥

प्रकृतिं, विकृतिं, विद्यां, सर्वभूत हितप्रदाम् ।
श्रद्धां, विभूतिं, सुरभिं, नमामि परमात्मिकाम् ॥ 1 ॥
वाचं, पद्मालयां, पद्मां, शुचिं, स्वाहां, स्वधां, सुधाम् ।
धन्यां, हिरण्ययीं, लक्ष्मीं, नित्यपुष्टां, विभावरीम् ॥ 2 ॥
अदितिं च, दितिं, दीप्तां, वसुधां, वसुधारिणीम् ।
नमामि कमलां, कान्तां, क्षमां, क्षीरोद सम्भवाम् ॥ 3 ॥
अनुग्रहपरां, बुद्धिं, अनघां, हरिवल्लभाम् ।
अशोका,ममृतां दीप्तां, लोकशोक विनाशिनीम् ॥ 4 ॥
नमामि धर्मनिलयां, करुणां, लोकमातरम् ।
पद्मप्रियां, पद्महस्तां, पद्माक्षीं, पद्मसुन्दरीम् ॥ 5 ॥
पद्मोद्भवां, पद्ममुखीं, पद्मनाभप्रियां, रमाम् ।
पद्ममालाधरां, देवीं, पद्मिनीं, पद्मगन्धिनीम् ॥ 6 ॥
पुण्यगन्धां, सुप्रसन्नां, प्रसादाभिमुखीं, प्रभाम् ।
नमामि चन्द्रवदनां, चन्द्रां, चन्द्रसहोदरीम् ॥ 7 ॥
चतुर्भुजां, चन्द्ररूपां, इन्दिरा,मिन्दुशीतलाम् ।
आह्लाद जननीं, पुष्टिं, शिवां, शिवकरीं, सतीम् ॥ 8 ॥
विमलां, विश्वजननीं, तुष्टिं, दारिद्र्य नाशिनीम् ।
प्रीति पुष्करिणीं, शान्तां, शुक्लमाल्याम्बरां, श्रियम् ॥ 9 ॥
भास्करीं, बिल्वनिलयां, वरारोहां, यशस्विनीम् ।
वसुन्धरा, मुदाराङ्गां, हरिणीं, हेममालिनीम् ॥ 10 ॥
धनधान्यकरीं, सिद्धिं, स्रैणसौम्यां, शुभप्रदाम् ।
नृपवेश्म गतानन्दां, वरलक्ष्मीं, वसुप्रदाम् ॥ 11 ॥
शुभां, हिरण्यप्राकारां, समुद्रतनयां, जयाम् ।
नमामि मङ्गलां देवीं, विष्णु वक्षःस्थल स्थिताम् ॥ 12 ॥
विष्णुपत्नीं, प्रसन्नाक्षीं, नारायण समाश्रिताम् ।
दारिद्र्य ध्वंसिनीं, देवीं, सर्वोपद्रव वारिणीम् ॥ 13 ॥
नवदुर्गां, महाकालीं, ब्रह्म विष्णु शिवात्मिकाम् ।
त्रिकालज्ञान सम्पन्नां, नमामि भुवनेश्वरीम् ॥ 14 ॥
लक्ष्मीं क्षीरसमुद्रराज तनयां श्रीरङ्गधामेश्वरीम् ।
दासीभूत समस्तदेव वनितां लोकैक दीपाङ्कुराम् ॥
श्रीमन्मन्द कटाक्ष लब्ध विभवद्-ब्रह्मेन्द्र गङ्गाधराम् ।
त्वां त्रैलोक्य कुटुम्बिनीं सरसिजां वन्दे मुकुन्दप्रियाम् ॥ 15 ॥
मातर्नमामि! कमले! कमलायताक्षि!
श्री विष्णु हृत्-कमलवासिनि! विश्वमातः!
क्षीरोदजे कमल कोमल गर्भगौरि!
लक्ष्मी! प्रसीद सततं समतां शरण्ये ॥ 16 ॥
त्रिकालं यो जपेत् विद्वान् षण्मासं विजितेन्द्रियः ।
दारिद्र्य ध्वंसनं कृत्वा सर्वमाप्नोत्-ययत्नतः ।
देवीनाम सहस्रेषु पुण्यमष्टोत्तरं शतम् ।
येन श्रिय मवाप्नोति कोटिजन्म दरिद्रतः ॥ 17 ॥
भृगुवारे शतं धीमान् पठेत् वत्सरमात्रकम् ।
अष्टैश्वर्य मवाप्नोति कुबेर इव भूतले ॥
दारिद्र्य मोचनं नाम स्तोत्रमम्बापरं शतम् ।
येन श्रिय मवाप्नोति कोटिजन्म दरिद्रतः ॥ 18 ॥
भुक्त्वातु विपुलान् भोगान् अन्ते सायुज्यमाप्नुयात् ।
प्रातःकाले पठेन्नित्यं सर्व दुःखोप शान्तये ।
पठन्तु चिन्तयेद्देवीं सर्वाभरण भूषिताम् ॥ 19 ॥
इति श्री लक्ष्मी अष्टोत्तर शतनाम स्तोत्रं सम्पूर्णम्

MAHA LAKSHMI ASHTAKAM

इन्द्र उवाच –
नमस्तेஉस्तु महामाये श्रीपीठे सुरपूजिते ।
शङ्खचक्र गदाहस्ते महालक्ष्मि नमोஉस्तु ते ॥ 1 ॥
नमस्ते गरुडारूढे कोलासुर भयङ्करि ।
सर्वपापहरे देवि महालक्ष्मि नमोஉस्तु ते ॥ 2 ॥
सर्वज्ञे सर्ववरदे सर्व दुष्ट भयङ्करि ।
सर्वदुःख हरे देवि महालक्ष्मि नमोஉस्तु ते ॥ 3 ॥
सिद्धि बुद्धि प्रदे देवि भुक्ति मुक्ति प्रदायिनि ।
मन्त्र मूर्ते सदा देवि महालक्ष्मि नमोஉस्तु ते ॥ 4 ॥
आद्यन्त रहिते देवि आदिशक्ति महेश्वरि ।
योगज्ञे योग सम्भूते महालक्ष्मि नमोஉस्तु ते ॥ 5 ॥
स्थूल सूक्ष्म महारौद्रे महाशक्ति महोदरे ।
महा पाप हरे देवि महालक्ष्मि नमोஉस्तु ते ॥ 6 ॥
पद्मासन स्थिते देवि परब्रह्म स्वरूपिणि ।
परमेशि जगन्मातः महालक्ष्मि नमोஉस्तु ते ॥ 7 ॥
श्वेताम्बरधरे देवि नानालङ्कार भूषिते ।
जगस्थिते जगन्मातः महालक्ष्मि नमोஉस्तु ते ॥ 8 ॥
महालक्ष्मष्टकं स्तोत्रं यः पठेद् भक्तिमान् नरः ।
सर्व सिद्धि मवाप्नोति राज्यं प्राप्नोति सर्वदा ॥
एककाले पठेन्नित्यं महापाप विनाशनम् ।
द्विकाल्ं यः पठेन्नित्यं धन धान्य समन्वितः ॥
त्रिकालं यः पठेन्नित्यं महाशत्रु विनाशनम् ।
महालक्ष्मी र्भवेन्-नित्यं प्रसन्ना वरदा शुभा ॥
[इन्त्यकृत श्री महालक्ष्म्यष्टक स्तोत्रं सम्पूर्णम्]

SRI SUKTAM – DEVANAGARI

ॐ ॥ हिर॑ण्यवर्णां॒ हरि॑णीं सु॒वर्ण॑रज॒तस्र॑जाम् । च॒न्द्रां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒ आव॑ह ॥
तां म॒ आव॑ह॒ जात॑वेदो ल॒क्ष्मीमन॑पगा॒मिनी॓म् ।
यस्यां॒ हिर॑ण्यं वि॒न्देयं॒ गामश्वं॒ पुरु॑षान॒हम् ॥
अ॒श्व॒पू॒र्वां र॑थम॒ध्यां ह॒स्तिना॓द-प्र॒बोधि॑नीम् ।
श्रियं॑ दे॒वीमुप॑ह्वये॒ श्रीर्मा दे॒वीर्जु॑षताम् ॥
कां॒ सो॓स्मि॒तां हिर॑ण्यप्रा॒कारा॑मा॒र्द्रां ज्वलं॑तीं तृ॒प्तां त॒र्पयं॑तीम् ।
प॒द्मे॒ स्थि॒तां प॒द्मव॑र्णां॒ तामि॒होप॑ह्वये॒ श्रियम् ॥
च॒न्द्रां प्र॑भा॒सां य॒शसा॒ ज्वलं॑तीं॒ श्रियं॑ लो॒के दे॒वजु॑ष्टामुदा॒राम् ।
तां प॒द्मिनी॑मीं॒ शर॑णम॒हं प्रप॑द्येஉल॒क्ष्मीर्मे॑ नश्यतां॒ त्वां वृ॑णे ॥
आ॒दि॒त्यव॑र्णे तप॒सोஉधि॑जा॒तो वन॒स्पति॒स्तव॑ वृ॒क्षोஉथ बि॒ल्वः ।
तस्य॒ फला॑नि॒ तप॒सानु॑दन्तु मा॒यान्त॑रा॒याश्च॑ बा॒ह्या अ॑ल॒क्ष्मीः ॥
उपैतु॒ मां दे॒वस॒खः की॒र्तिश्च॒ मणि॑ना स॒ह ।
प्रा॒दु॒र्भू॒तोஉस्मि॑ राष्ट्रे॒உस्मिन् की॒र्तिमृ॑द्धिं द॒दादु॑ मे ॥
क्षुत्पि॑पा॒साम॑लां ज्ये॒ष्ठाम॑ल॒क्षीं ना॑शया॒म्यहम् ।
अभू॑ति॒मस॑मृद्धिं॒ च सर्वां॒ निर्णु॑द मे॒ गृहात् ॥
ग॒न्ध॒द्वा॒रां दु॑राध॒र्षां॒ नि॒त्यपु॑ष्टां करी॒षिणी॓म् ।
ई॒श्वरीग्ं॑ सर्व॑भूता॒नां॒ तामि॒होप॑ह्वये॒ श्रियम् ॥
मन॑सः॒ काम॒माकूतिं वा॒चः स॒त्यम॑शीमहि ।
प॒शू॒नां रू॒पमन्य॑स्य मयि॒ श्रीः श्र॑यतां॒ यशः॑ ॥
क॒र्दमे॑न प्र॑जाभू॒ता॒ म॒यि॒ सम्भ॑व क॒र्दम ।
श्रियं॑ वा॒सय॑ मे कु॒ले मा॒तरं॑ पद्म॒मालि॑नीम् ॥
आपः॑ सृ॒जन्तु॑ स्नि॒ग्दा॒नि॒ चि॒क्ली॒त व॑स मे॒ गृहे ।
नि च॑ दे॒वीं मा॒तरं॒ श्रियं॑ वा॒सय॑ मे कु॒ले ॥
आ॒र्द्रां पु॒ष्करि॑णीं पु॒ष्टिं॒ सु॒व॒र्णाम् हे॑ममा॒लिनीम् ।
सू॒र्यां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒ आव॑ह ॥
आ॒र्द्रां यः॒ करि॑णीं य॒ष्टिं पि॒ङ्ग॒लाम् प॑द्ममा॒लिनीम् ।
च॒न्द्रां हि॒रण्म॑यीं ल॒क्ष्मीं॒ जात॑वेदो म॒ आव॑ह ॥
तां म॒ आव॑ह॒ जात॑वेदो ल॒क्षीमन॑पगा॒मिनी॓म् ।
यस्यां॒ हिर॑ण्यं॒ प्रभू॑तं॒ गावो॑ दा॒स्योஉश्वा॓न्, वि॒न्देयं॒ पुरु॑षान॒हम् ॥
ॐ म॒हा॒दे॒व्यै च॑ वि॒द्महे॑ विष्णुप॒त्नी च॑ धीमहि । तन्नो॑ लक्ष्मीः प्रचो॒दया॓त् ॥
श्री-र्वर्च॑स्व॒-मायु॑ष्य॒-मारो॓ग्य॒मावी॑धा॒त् पव॑मानं मही॒यते॓ । धा॒न्यं ध॒नं प॒शुं ब॒हुपु॑त्रला॒भं श॒तसं॓वत्स॒रं दी॒र्घमायुः॑ ॥
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ 

Thursday, 26 March 2015

जन्म तथा मृत्यु

जन्म लेना, जीवन व्यतीत करना और फिर अंत में मृत्यु, यह तो पृथ्वी लोक में बस रहे हर एक मनुष्य की कहानी है। जिसने जन्म लिया है उसने किसी ना किसी कारणवश वापस यमलोक जाना ही है। लेकिन कब और कैसे इस जानकारी से वंचित होता है मनुष्य। हर कोई जानना चाहता है कि आखिरकार वो कब और कैसे मरेगा। लेकिन इससे भी ज्यादा जरूरी है यह जानना कि मरने के बाद इंसान के साथ क्या होता है तथा उसकी आत्मा कहां जाती है?

  
विभिन्न धर्म ग्रंथों के अनुसार इंसान की मृत्यु के बाद यमराज उसकी आत्मा को यम लोक ले जाते हैं। लेकिन क्या सच में ऐसी कोई दुनिया अस्तित्व में मौजूद है या फिर यह महज मानवीय कहानियां है जिसे इंसान ने अपने मनोरंजन के लिए बनाया है। खैर यह तो आज तक विज्ञान भी पता नहीं कर पाया है कि आखिर मरने के बाद मनुष्य कहां जाता है? 

बेशक विज्ञान द्वारा जन्म तथा मृत्यु के बीच मानव शरीर की हर एक गतिविधि पर नियंत्रण पाने की क्षमता है, लेकिन मनुष्य के इस दुनिया से जाने के बाद वह कहां जाता है इसकी जानकारी विज्ञान भी नहीं ले पाया है। परंतु ऐसे कई सवालों का जवाब धर्म ग्रंथों ने जरूर दिया है। यह जानकर आश्चर्य होता है कि कई हजार वर्षों पहले ही हिन्दू धर्म में सौरमण्डल की खोज कर ली गई थी। 


जिस ब्रह्मांड को हजारों वर्षों बाद विज्ञान ने खोज निकाला उसे बहुत पहले ही हिन्दू धर्म में पा लिया गया था। दुनिया में पृथ्वी के अलावा अन्य काफी सारे ग्रह हैं इसकी खोज विज्ञान से काफी पहले धर्म ग्रंथों में कर दी गई थी। विभिन्न ग्रह, सूर्य, चंद्रमा, आदि का वर्णन संक्षेप रूप में हिन्दू धर्म ग्रंथों में किया गया है। 


इन्हीं धर्म ग्रंथों के अनुसार इंसानी शरीर को विभिन्न तत्वों के रूप में विभाजित किया गया है। कहा जाता है कि पृथ्वी पर रह रहे जीवों का शरीर पंच महाभूतों से बना है, जिसमें पृथ्वी यानी कि भूमि, जल, वायु, अग्नि तथा आकाश शामिल हैं। मानव के शरीर में कुल 24 तत्वों का वास है जिनमें पंच महाभूत, पंच तन्मात्र, पंच ज्ञानेन्द्रियां, पंच कर्मेन्द्रियां तथा मन, बुद्धि, चित्त एवं अहंकार का मिश्रण होता है। 


इसी तरह से धरती पर रह रहे मनुष्य के अलावा अन्य जीव जैसे कि पशु, पक्षी इत्यादि के भीतर मानव शरीर की तरह ही तत्व उपस्थित होते हैं। परन्तु इन जीवों में मनुष्य की तरह पंचमहाभूत नहीं होते हैं। 

मानव शरीर से संबंधित एक और बात काफी आश्चर्यजनक है कि मानवीय शरीर चार प्रकार का होता है - पार्थिव शरीर, सूक्ष्म शरीर, लिंगम शरीर तथा कारण शरीर। इनमें पार्थिव शरीर प्रथम स्थान पर होता है, जिसे स्थूल शरीर भी कहा जाता है। स्थूल शरीर प्राणी की जीवित अवस्था है यानी कि जब तक मनुष्य के शरीर में आत्मा का वास है और उसकी श्वास चल रही हैं, उसका शरीर स्थूल शरीर कहलाता है। 


इसके बाद सूक्ष्म शरीर में पंच महाभूत नहीं होते हैं। यह शरीर पारदर्शी होता है यानी कि एक ऐसा शरीर जिसकी छाया नहीं पड़ती है। इस शरीर की आकृति तो स्थूल शरीर जैसी ही होती है लेकिन पंच महाभूतों की अनुपस्थिति के कारण यह शरीर हल्का होता है। परंतु इसमें शक्ति बहुत अधिक होती है। 
सूक्ष्म शरीर भूत-प्रेत आदि की देह होती है। सूक्ष्म शरीर वालों के लिए पृथ्वी जैसे ठोस ग्रहों पर निवास आवश्यक नहीं है। इस तरह का शरीर तो अंतरिक्ष में भी रह सकता है। केवल वही सूक्ष्मधारी पृथ्वी के आसपास रह सकते हैं, जिन्हें पुनर्जन्म लेना हो। यहां पुनर्जन्म से तात्पर्य केवल उसी मनुष्य के रूप में जन्म लेना नहीं है, बल्कि किसी भी मानवीय शरीर में जब दोबारा से पृथ्वी पर आना हो तो सूक्ष्म धारी पृथ्वी के निकट विचरण करते हैं।
परंतु वे अंतरिक्ष में एक निश्चित सीमा से आगे नहीं जा सकते हैं। कई बार सूक्ष्म धारक शरीर पृथ्वी पर स्थूल शरीर वाले मनुष्य से सम्पर्क भी करते हैं। अकसर हम ऐसे कहानियां सुनते हैं कि जब किसी मनुष्य ने किसी आत्मा या भूत-प्रेत से बात की हो या उसे देखा हो। इतना ही नहीं यह सूक्ष्मधारी शरीर किसी अन्य काया में प्रवेश करने की क्षमता भी रखते हैं।
अब बारी है तीसरे प्रकार के शरीर की जो है लिंगम शरीर। लिंगम शरीर एक ऐसा शरीर है जिसमें मानव जाति के 24 तत्वों में से केवल 13 तत्व शामिल होते हैं। इस शरीर में पंच कर्मेन्द्रियाँ, पंच ज्ञानेन्द्रियां तथा मन, बुद्धि एवं अंहकार होता है। मान्यता है कि लिंगम शरीर का निवास चंद्रलोक में होता है।
हैरानी की बात तो यह है कि हमारा विज्ञान चंद्रमा ग्रह तक पहुंच तो गया है लेकिन अब तक वैज्ञानिकों को वहां मानव जीवन के चिन्ह नहीं मिले हैं। इसका कारण है लिंगम शरीर में स्थूल शरीर के तत्वों की अनुपस्थिति, जिस वजह से चाह कर भी वैज्ञानिक इस शरीर के चिन्हों को खोज नहीं पा रहे हैं।
चौथे प्रकार का शरीर कारण शरीर कहलाता है। हिन्दू धर्म ग्रंथों के अनुसार इस प्रकार के शरीर का आकार मानव शरीर में मौजूद अंगूठे के समान होता है। मानव शरीर के इस पड़ाव तक आकर शरीर की अपनी अस्मिता खो जाती है और वह आत्मा में परिवर्तित हो जाता है। इसीलिए कारण शरीर का आकार केवल एक अंगूठे के समान बताया गया है।
कारण शरीर का अपना कोई स्वरूप नहीं होता तो फिर उसकी आकृति का व्याख्यान करना असंभव है। इस शरीर में आने के बाद ही आत्मा दूरस्थ लोक-लोकान्तरों का परिभ्रमण करते हुए अंत में परमधाम ‘सूर्यलोक’ की ओर प्रस्थान करती है। इसके बाद आत्मा का परमात्मा में विलय हो जाता है। 
जन्म तथा मरण की परिभाषाओं को लेकर ज्योतिष विज्ञान में भी कुछ आलेख किया गया है। यह बातें जीवन के चक्र को सौरमण्डल के ग्रहों से जोड़ती हैं। इस विज्ञान के अनुसार सूर्य को आत्मकारक कहा गया है और चंद्रमा को मन का कारक अमृतमय ग्रह कहा गया है। इसके अलावा बृहस्पति ग्रह को ज्ञान एवं जीवकारक कहा गया है और शनि को न्यायकर्ता, मृत्यु एवं आयु का कारक ग्रह कहा गया है। 
 
सनातन धर्म में एक प्रमुख पुराण की रचना की गयी है। यह है गरुड़ पुराण जिसमें प्रेत कर्म एवं मृत्यु का विवरण मिलता है। इस पुराण के अधिष्ठातृ देव भगवान विष्णु हैं। इस पुराण के अनुसार देहावसान के बाद स्थूल शरीर छूट जाने पर जीव कुछ क्षण के लिये कारण शरीर में निवास करता है। कारण शरीर में जाने के बाद एक से लेकर दो क्षण तक (जहां एक क्षण चार मिनट के बराबर होता है), मृत्यु के पूर्व प्रत्येक प्राणी को सर्वात्म दृष्टि प्राप्त हो जाती है। यह सर्वात्म दृष्टि सभी माया-मोह से मुक्त होती है। 
 
परंतु स्थूल शरीर से कारण शरीर में जाने का यह परिर्वतन कुछ ही समय के लिए होता है। कारण शरीर की गति प्रकाश की गति की तरह होती है जिस कारण प्राणी की आत्मा शरीर से छूटते ही दो मुहूर्त में यमलोक पहुंच जाती है। यानी कि केवल दो मुहूर्त में ही जीव यमराज के पास पहुंच जाता है। यम लोक में पहुंचने के बाद प्राणी के कर्म-अकर्म की छानबीन होती है। आत्मा के मुक्त होने की कार्यविधि यहीं समाप्त नहीं होती है। 

उस प्राणी के पाप तथा पुण्य का हिसाब लगाने के बाद अगले दो मुहूर्त में उसे यम लोक से अपने मृत-शरीर के पास वापस भेज दिया जाता है। परंतु उसे स्थूल शरीर में प्रवेश करने की आज्ञा नहीं होती है। इसके बाद वह सूक्ष्म शरीर में प्रवेश करता है। एक ऐसा शरीर जिसका वास्तव में कोई स्थान नहीं है लेकिन कुछ शक्तियां जरूर हैं जिसकी सहायता से वह मानव जाति से सम्पर्क साध सकता है।
 
सूक्ष्म शरीर में प्रवेश करने के ठीक छह माह बाद जीव को लिंगम शरीर की प्राप्ति होती है। प्रत्येक शरीर के मिलने का गरुड़ पुराण में दिनों के हिसाब से वर्णन किया गया है जिसके अनुसार जीव की मृत्यु के 10 दिन में सूक्ष्म शरीर बनता है। जिसके पश्चात् 11वें दिन से जीव पुनः सूक्ष्म शरीर धारण कर पृथ्वी से बृहस्पति ग्रह तक यात्रा आरम्भ करता है। अर्थात् सूक्ष्म शरीर प्राप्त कर जीव दूसरी बार फिर से यमपुरी के लिये रवाना होता है।
 
इस बार उसे वहां तक जाने में एक वर्ष लग जाता है। पहली बार जीव कारण शरीर में प्रकाश की गति से गया था, दूसरी बार वह सूक्ष्म शरीर में चलता है और मार्ग में उसे अंतरिक्ष की अठारह सूक्ष्म पुरियों में विश्राम लेना पड़ता है। इस यात्रा के एक वर्ष में छः माह तक जीव सूक्ष्म शरीर में रहता है जिस कारण उसकी गति धीमी पड़ जाती है।
 
जीव के लिए रास्ते में कुल छह ठहराव निश्चित किए गए हैं जहां वह अपने पूर्वार्जित पुण्य कर्म का भोग करता है। इस बीच जीव को एक वैतरणी नदी पार करनी होती है जिसे लांघने के बाद ही उसे लिंगम् शरीर की प्राप्ति होती है। इस शरीर में वह बृहस्पति ग्रह तक जाता है। बृहस्पति ग्रह से आगे बढ़ते हुए जीव को दोबारा से कारण शरीर मिलता है।
 
गरुड़ पुराण में यमलोक की तस्वीर भी जाहिर की गई है। बताया गया है कि यमपुरी के बाहर एक विशाल घेरा बना हुआ है। यह घेरा शनि ग्रह के चारों ओर कोहरे के रूप में दिखाई पड़ता है। इस स्थान पर रहने वाले जीव कारण शरीर धारक हैं। कारण शरीर की अवस्था प्रकाश-पुंज है इसीलिए यह प्रकाश किरणों के रूप में हमें दृष्टिगत हो सकती है। 

आज के समय में जिस प्रकार से विज्ञान भी इन ग्रहों की तस्वीर हमें प्रदान कर रहा है वह बेशक सही है लेकिन वहां मौजूद मानव शरीर के अस्तित्व का पता लगाने में आज भी असमर्थ है विज्ञान। इसमें विज्ञान की कोई गलती नहीं है क्योंकि जिस अवस्था में जीव वहां मौजूद हैं उस शक्ति को साधारण मनुष्य द्वारा पहचान किया जा पाना कठिन है क्योंकि इन्हें पहचानने के लिए एक खास तरह की शक्ति की अवश्यकता है। 
 
                                                                                              tanks