श्रीभद्रलक्ष्मी स्तोत्रं
श्रीदेवी प्रथमं नाम द्वितीयममृतोद्भवा ।
तृतीयं कमला प्रोक्ता चतुर्थं लोकसुन्दरी ॥ १ ॥
पंचमं विष्णुपत्नीति षष्ठं श्रीवैष्णवीति च ।
सप्तमं तु वरारोहा अष्टमं हरिवल्लभा ॥ २ ॥
नवमं शार्ङ्गिणी प्रोक्ता दशमं देवदेविका ।
एकादशं महालक्ष्मीर्द्वादशं लोकसुन्दरी ॥ ३ ॥
श्रीः पद्मा कमला मुकुन्दमहिषी लक्ष्मीस्त्रीलोकेश्वरी मा क्षीराब्धिसुताऽरविन्दजननी विद्या सरोजात्मिका ॥ ४ ॥
सर्वाभीष्टफलप्रदेति सततं नामानि ये द्वादश ।
प्रातः शुद्धतराः पठन्ति सततं सर्वांल्लभन्ते शुभान् ॥ ५ ॥
भद्रलक्ष्मीस्तवं नित्यं पुण्यमेतच्छुभावहम् ।
काले स्नात्वाऽपि कावेर्यां जप श्रीवृक्षसन्निदौ ॥ ६ ॥
No comments:
Post a Comment