Saturday 10 June 2017

कनक धारा स्तोत्रम्

वन्दे वन्दारु मन्दारमिन्दिरानन्द कन्दलं
अमन्दानन्द सन्दोह बन्धुरं सिन्धुराननम्
अङ्गं हरेः पुलकभूषणमाश्रयन्ती
भृङ्गाङ्गनेव मुकुलाभरणं तमालम् ।
अङ्गीकृताखिल विभूतिरपाङ्गलीला
माङ्गल्यदास्तु मम मङ्गलदेवतायाः ॥ 1 ॥
मुग्धा मुहुर्विदधती वदने मुरारेः
प्रेमत्रपाप्रणिहितानि गतागतानि ।
मालादृशोर्मधुकरीव महोत्पले या
सा मे श्रियं दिशतु सागर सम्भवा याः ॥ 2 ॥
आमीलिताक्षमधिग्यम मुदा मुकुन्दम्
आनन्दकन्दमनिमेषमनङ्ग तन्त्रम् ।
आकेकरस्थितकनीनिकपक्ष्मनेत्रं
भूत्यै भवन्मम भुजङ्ग शयाङ्गना याः ॥ 3 ॥
बाह्वन्तरे मधुजितः श्रितकौस्तुभे या
हारावलीव हरिनीलमयी विभाति ।
कामप्रदा भगवतोஉपि कटाक्षमाला
कल्याणमावहतु मे कमलालया याः ॥ 4 ॥
कालाम्बुदालि ललितोरसि कैटभारेः
धाराधरे स्फुरति या तटिदङ्गनेव ।
मातुस्समस्तजगतां महनीयमूर्तिः
भद्राणि मे दिशतु भार्गवनन्दना याः ॥ 5 ॥
प्राप्तं पदं प्रथमतः खलु यत्प्रभावात्
माङ्गल्यभाजि मधुमाथिनि मन्मथेन ।
मय्यापतेत्तदिह मन्थरमीक्षणार्थं
मन्दालसं च मकरालय कन्यका याः ॥ 6 ॥
विश्वामरेन्द्र पद विभ्रम दानदक्षम्
आनन्दहेतुरधिकं मुरविद्विषोஉपि ।
ईषन्निषीदतु मयि क्षणमीक्षणार्थं
इन्दीवरोदर सहोदरमिन्दिरा याः ॥ 7 ॥
इष्टा विशिष्टमतयोपि यया दयार्द्र
दृष्ट्या त्रिविष्टपपदं सुलभं लभन्ते ।
दृष्टिः प्रहृष्ट कमलोदर दीप्तिरिष्टां
पुष्टिं कृषीष्ट मम पुष्कर विष्टरा याः ॥ 8 ॥
दद्याद्दयानु पवनो द्रविणाम्बुधारां
अस्मिन्नकिञ्चन विहङ्ग शिशौ विषण्णे ।
दुष्कर्मघर्ममपनीय चिराय दूरं
नारायण प्रणयिनी नयनाम्बुवाहः ॥ 9 ॥
गीर्देवतेति गरुडध्वज सुन्दरीति
शाकम्बरीति शशिशेखर वल्लभेति ।
सृष्टि स्थिति प्रलय केलिषु संस्थितायै
तस्यै नमस्त्रिभुवनैक गुरोस्तरुण्यै ॥ 10 ॥
श्रुत्यै नमोஉस्तु शुभकर्म फलप्रसूत्यै
रत्यै नमोஉस्तु रमणीय गुणार्णवायै ।
शक्त्यै नमोஉस्तु शतपत्र निकेतनायै
पुष्ट्यै नमोஉस्तु पुरुषोत्तम वल्लभायै ॥ 11 ॥
नमोஉस्तु नालीक निभाननायै
नमोஉस्तु दुग्धोदधि जन्मभूम्यै ।
नमोஉस्तु सोमामृत सोदरायै
नमोஉस्तु नारायण वल्लभायै ॥ 12 ॥
नमोஉस्तु हेमाम्बुज पीठिकायै
नमोஉस्तु भूमण्डल नायिकायै ।
नमोஉस्तु देवादि दयापरायै
नमोஉस्तु शार्ङ्गायुध वल्लभायै ॥ 13 ॥
नमोஉस्तु देव्यै भृगुनन्दनायै
नमोஉस्तु विष्णोरुरसि स्थितायै ।
नमोஉस्तु लक्ष्म्यै कमलालयायै
नमोஉस्तु दामोदर वल्लभायै ॥ 14 ॥
नमोஉस्तु कान्त्यै कमलेक्षणायै
नमोஉस्तु भूत्यै भुवनप्रसूत्यै ।
नमोஉस्तु देवादिभिरर्चितायै
नमोஉस्तु नन्दात्मज वल्लभायै ॥ 15 ॥
सम्पत्कराणि सकलेन्द्रिय नन्दनानि
साम्राज्य दानविभवानि सरोरुहाक्षि ।
त्वद्वन्दनानि दुरिता हरणोद्यतानि
मामेव मातरनिशं कलयन्तु मान्ये ॥ 16 ॥
यत्कटाक्ष समुपासना विधिः
सेवकस्य सकलार्थ सम्पदः ।
सन्तनोति वचनाङ्ग मानसैः
त्वां मुरारिहृदयेश्वरीं भजे ॥ 17 ॥
सरसिजनिलये सरोजहस्ते
धवलतमांशुक गन्धमाल्यशोभे ।
भगवति हरिवल्लभे मनोज्ञे
त्रिभुवनभूतिकरी प्रसीदमह्यम् ॥ 18 ॥
दिग्घस्तिभिः कनक कुम्भमुखावसृष्ट
स्वर्वाहिनी विमलचारुजलाप्लुताङ्गीम् ।
प्रातर्नमामि जगतां जननीमशेष
लोकधिनाथ गृहिणीममृताब्धिपुत्रीम् ॥ 19 ॥
कमले कमलाक्ष वल्लभे त्वं
करुणापूर तरङ्गितैरपाङ्गैः ।
अवलोकय मामकिञ्चनानां
प्रथमं पात्रमकृतिमं दयायाः ॥ 20 ॥
देवि प्रसीद जगदीश्वरि लोकमातः
कल्याणगात्रि कमलेक्षण जीवनाथे ।
दारिद्र्यभीतिहृदयं शरणागतं मां
आलोकय प्रतिदिनं सदयैरपाङ्गैः ॥ 21 ॥
स्तुवन्ति ये स्तुतिभिरमीभिरन्वहं
त्रयीमयीं त्रिभुवनमातरं रमाम् ।
गुणाधिका गुरुतुर भाग्य भागिनः
भवन्ति ते भुवि बुध भाविताशयाः ॥ 22 ॥
सुवर्णधारा स्तोत्रं यच्छङ्कराचार्य निर्मितं
त्रिसन्ध्यं यः पठेन्नित्यं स कुबेरसमो भवेत् ॥

No comments:

Post a Comment